पुष्पांजलि 

हे रामः पुरुषोत्तमः नरहरे, नारायणं केशवं । 

गोविन्दं गरुड़ध्वजं गुणनिधे दामोदरं माधवं ॥ 

हे कृष्ण, कमलापते, यदुपते, सीतापते श्रीपते । 

बैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहिमाम् ।। 

आदौ राम तपोवनादि गमनम् हत्वा मृगं काँचनम। 

वैदेही हरणं जटायु मरणं सुग्रीव सम्भाषणम् । 

बालि निग्रहणं समुद्रतरणं, लंकापुरी दाहनम् । 

पश्चाद्रावण कुम्भकरण हननं एतद्धि रामायणम् ॥ 

आदौ देवकीदेव गर्भजननं गोपीगृहे वर्द्धनम् । 

मायापूतन जीवतापहरणं गोवर्द्धनोधारणम् ।। 

कंसाच्छेदन कौरवादिहननं, कुन्ती सुताः पालनम् । 

एतद्भागवतं पुराण कथितं श्रीकृष्णलीला मृतम् ॥ 

कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभम् । 

नासाग्रे करमौक्तिकं करतले वेणुंकरे कंकणम् ।। 

सर्वाङ्गे हरिचन्दनम् सुललितं कण्ठे च मुक्तावली । 

गोपस्त्रीपरिवेष्टितो विजयते गोपाल चूड़ामणिः ।। 

फुल्लेन्दीवरकान्तिमिन्दुवदनं वर्हावतंसप्रियम् । 

श्रीवत्साङ्कमुदार कौस्तुभधरं पीताम्बरं सुन्दरम् ॥ 

गोपीनां नयनोत्पलाचिंततनूं गोगोपसंहावृतम् । 

गोविन्दं कलवेणुवादनपरं दिव्यांगभूषं भजे सर्वमङ्गल मङ्गल्ये शिवे सर्वार्थसाधिके । 

शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तुते ॥ 

सृष्टि स्थिति विनाशानां शक्ति भूते सनातनि। 

गुणाश्रये गुणमयी नारायणी नमोऽस्तुते