॥ अथ श्री पुष्पदन्त उवाच महिम्न स्रोत्रम् ॥
महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः
अथावाच्यः शर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्त्रोत्रे हर निरपवादः परिकरः ॥ 1 ॥
अतीतः पन्थानं तव च महिमा वाङ्मनसयो
रतद्वयावृत्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्यः विषयः
पदेत्वर्वाचीने पतति न मनः कस्य न वचः ।। 2 ।।
मधुस्फीता वाचः परमममृतं निर्मितवत
स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन् पुरमथनबुद्धिर्व्यवसिता ॥ ३ ॥
तवैश्वर्य यत्त तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नाषु तनुषु
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जड़धियः ॥ 4 ॥
किमीहः किं कायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतयैश्वर्य त्वय्यनवसरदुःस्थो हतधियः
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥ 5 ॥
अजन्मानो लोकाः किमवयववन्तोऽपि जगता
मधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ 6 ॥
त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ 7 ॥
महोक्षः खट्वाङ्ग परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति च भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ 8 ॥
ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
परो धौव्याध्रौव्ये जगति गदति व्यस्तविषये ।
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवजिह्रेमि त्वां न खलु ननु धृष्टामुखरता ॥ 9 ॥
तवैश्वर्यं यत्तत्वदुपरि यदुपरि विरञ्चिर्हरिरधः
परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः ।
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ 10 ॥
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद् बाहूनभृत रणकण्डूपरवशान् ।
शिरः पद्मश्रेणीरचितचरणाम्भोरुहबलेः
स्थिरायास्त्वद्भक्ते स्त्रिपुरहर विस्फूर्जितमिदम् ॥ 11 ॥
अमुष्य त्वत्सेवासमधिगतसारं भुजवनं
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः
अलभ्या पातालेऽप्यलसचलिताड्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यतिखलः ॥ 12 ॥
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती
मधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः
न तच्चित्रं सम्यग्वरिवरिवसितरि त्वच्चरणयो
र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥ 13 ॥
अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा
विधेयस्यासीद् यस्त्रिनयनविषं संहृतवतः ।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनभयभंगव्यसनिनः ॥ 14 ॥
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः
स पश्यनीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्त्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ 15 ॥
मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णभ्राम्यद्भुज परिघ रुग्ण ग्रहगणम्
मुद्द्यौद स्थ्यंयात्यन्निभृतजटाताडितसटा
जगद्रक्षायै त्वं नटसि ननु बामैव विभुता ॥ 16 ॥
वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते
जग द्वीपाकारं जलधिवलयं तेन कृतमि-
त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ 17 ॥
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथांने चन्द्राकौं रथचरणपाणिः शर इति
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ 18 ॥
हरिस्ते साहस्त्रं कमलबलिमाधाय पदयो
र्यदेकोने तस्मिन् निजमुदहरन्नैत्रकमलम्
गतो भक्त्युिद्रेकः परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ 19 ॥
क्रतो सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतो श्रद्धां बद्ध्वा कृतपरिकरः कर्मसु जनः ॥ 20 ॥
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता
मृषीणामार्त्विज्यं शरणद् सदस्याः सुरगणाः
क्रतुभ्रं षस्त्वत्तः क्रतुफलविधानव्यसनिनो
ध्रुवं कर्तु श्रद्धाविधुरमभिचाराय हि मखाः ॥ 21 ॥
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तंतेऽद्यापि त्यजति न मृगव्याधरभसः ॥ 22 ॥
स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरत देहार्धघटना
दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ 23 ॥
श्मशानेष्वाक्रीड़ा स्मरहर पिशाचाः सहचरा-
श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः ।
अमंगल्यं शीलं तव भवतु नामैवमखिलं
तथाऽपि स्मर्तृणां वरद परमं मंङ्गलमसि ॥ 24 ॥
मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः
प्रहृष्यद्रोमाणः प्रमदसलिलोत्संगितदृशः
यदालोक्याह लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वंकिमपि यमिनस्तत् किलभवान् ॥ 25 ॥
त्वमर्कस्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च
परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं
न विद्मस्तत्तत्त्वंवयंमिह तु यत्त्वं न भवसि ॥ 26 ॥
त्रयीं तिस्त्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणाम्योमिति पदम् ।। 27 ॥
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां-
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम्
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रिया यास्मै धाम्ने प्रविहितनमस्योऽस्मि भवते ॥ 28 ॥
नमो नेदिष्ठाय प्रियदवदविष्ठायः च नमो
नमः क्षोदिष्टाय स्मरहर महिष्ठाय च नमः
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो
नमः सर्वस्मै ते तदिदमिति सर्वाय च नमः ॥ 29 ॥
बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः ।
प्रबलतमसे त्वत्संहारे हराय नमो नमः
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ 30 ॥
कृशपरिणति चेतः क्लेशवरयं क्व चेदं
क्व च तव गुणसीमोल्लंघिनी शश्वदृद्धिः
इति चकितममन्दीकृत्य मां भक्तिराधाद्
वरद चरणयोस्ते वाक्यपुष्पोपहारम् ।। 31 ।।
असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ॥ 32 ॥
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले-
ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य
सकलगुण- वरिष्ठः पुष्पदन्ताभिधानो
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ।। 33 ।।
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
पठति परमभक्त्या शुद्धचितः पुमान् यः
स भवति शिवलोके रुद्रतुल्य स्तथात्र
प्रचुरतरधनायुः पुत्रवान् कार्तिमांश्च ॥ 34 ॥
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः
अघोरान्नापरो मन्त्रो नास्ति तत्वं गुरोः परम् ॥ 35 ॥
दीक्षा दानं तपस्तीर्थम् ज्ञानं योगादिकाः क्रियाः
महिम्नः स्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥। 36 ।।
कुसुमदशननामा सर्वगन्धर्वराजः
शिशुशशिधरमौले र्देवदेवस्य दास:
स खलु निज महिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नः ॥ 37 ॥
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः
व्रजति शिवसमीपं किन्नरैः स्तूयमानः
स्तवन मिदममोघं पुष्पदन्त प्रणीतम् ॥ 38 ॥
श्रीपुष्पदन्तमुखपंकजनिर्गतेन
स्त्रोत्रेण किल्विषहरेण हरप्रियेण
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः ।। 39 ।।
इत्येषा वाङ्मयी पूजा श्रीमच्छंकर पादयोः,
अर्पिता तेन में देवं प्रीयतां च सदाशिवः ॥ 40 ॥